‘पूर्वत्रासिद्धम्’ सूत्रविमर्शः
Main Article Content
Abstract
अष्टाध्याय्यां त्रिषु स्थलेषु असिद्धत्वविधायकं सूत्रं विद्यते। आद्यं षाष्ठिकं सूत्रं ‘षत्वतुकोरसिद्धः[1]’ इति। अत्र षत्वे तुकि च कर्तर्ण्य एकादेशस्यासिद्धत्वं साध्यते। द्वितीयञ्च ‘असिद्धवदत्राभात्[2]’ इति, अत्र आभात् समानाश्रयं कार्यम् असिद्धत्वं भजते। अत्र प्रकरणे पौर्वापर्यनियमो नास्ति, परं घुमास्था. सूत्रे हलिग्रहणात् ज्ञापकात् विप्रतिषेधेन व्यवस्थायां क्रियमाणायाम् असिद्धत्वाभावः साध्यते। अस्मिन् सूत्रे ‘अत्र’ ग्रहणात् समानाश्रये एव असिद्धत्वं भवति, व्याश्रये तु न भवति। तृतीयं स्थलमस्ति ‘चरमम् असिद्धत्वविधायकं’ यत्र विषये लेखोऽयं प्रस्तूयते।
Article Details
Issue
Section
Articles